ll श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तस्तोत्रं ll

ll श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तस्तोत्रं ll

अनसूयात्रिसम्भूत दत्तात्रेय महामते।
सर्वदेवाधिदेव त्वं मम चित्तं स्थिरीकुरु।।१।।

शरणागतदीनार्ततारकाsखिलकारक।
सर्वचालक देव त्वं मम चित्तं स्थिरीकुरु।।२।।

सर्वमङ्गलमाङ्गल्य सर्वाधिव्याधिभेषज।
सर्वसङ्कटहारिन् त्वं मम चित्तं स्थिरीकुरु।।३।।

स्मर्तृगामी स्वभक्तानां कामदो रिपुनाशनः।
भुक्तिमुक्तिप्रदः स त्वं मम चित्तं स्थिरीकुरु।।४।।

सर्वपापक्षयकरस्तापदैन्यनिवारणः।
योsभीष्टदः प्रभुः स त्वं मम चित्तं स्थिरीकुरु।।५।।

य एतत्प्रयतः श्लोकपञ्चकं प्रपठेत्सुधीः।
स्थिरचित्तः स भगवत्कृपापात्रं भविष्यति।।६।।

।। इति श्री. प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तस्तोत्रं संपूर्णम् ।।

Comments

Popular posts from this blog

अशक्य ही शक्य करतील स्वामी ।

पंचप्राण हे आतुर झाले, करण्या तव आरती

भगत सिंह के अनमोल विचार ... Bhagat Singh Quotes in Hindi & English