श्री व्यंकटेश स्तोत्र.. ग्रहपीडा निवारण, संकटनिवारण करण्यासाठी अत्यंत प्रभावी स्तोत्र
🌺🌺🌺🌺🌺🌺🌺
💐श्री व्यंकटेश स्तोत्र💐
ग्रहपीडा निवारण,
संकटनिवारण करण्यासाठी अत्यंत प्रभावी स्तोत्र.
श्री व्यंकटेश स्तोत्र
👉व्यंकटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः।
संकर्षणो अनिरुद्धश्र्च शेषाद्रिपतिरेवचः ॥१॥
👉जनार्दनः पद्मनामो वेंकटाचलवासिनः ।
सृष्टीकर्ता जगन्नाथो माधवो भक्तवत्सलः॥२॥
👉गोविंदो गोपतिः कृष्णः केशवो गरुडध्वजः ।
वराहो वामनश्चैव नारायण अधोक्षजः ॥३॥
👉श्रीधरः पुंडरिकाक्षः सर्वदेवस्तुतो हरीः ।
श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥४॥
👉रमानाथो महाभर्ता मधुरः पुरुषोत्तमः ।
चोलपुत्रप्रियः शांतो ब्रह्मादिनां वरप्रदः ॥५॥
👉श्रीनिधिः सर्वभूतानां भयकृद् भयनाशनः ।
श्रीरामो रामभद्रश्च भवबंधैकमोचकः ॥६॥
👉भूतावासो गिरावासः श्रीनिवासः श्रियःपतिः
अच्युतानंद गोविंद विष्णुर्वेंकटनायकः ॥७॥
👉सर्वदेवैकशरणं सर्वदेवैकदैवतं ।
समस्तदेवकवचं सर्वदेवशिखामणिः ॥८॥
👉इतीदं कीर्तितं यस्य विष्णोरमिततेजसः ।
त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥९॥
👉राजद्वारे पठेद् घोरे संग्रामे रिपुसंकटे ।
भूत-सर्प-पिशाचादि भयं नास्ति कदाचन ॥१०॥
👉अपुत्रो लभते पुत्रान् निर्धनो धनवान्भवेत् ।
रोगार्ते मुच्यते रोगात् बद्धो मुच्येत बंधनात् ॥११॥
👉यद् यदिष्टतमं लोके तत् तत् प्राप्नोत्यसंशयः ।
ऐश्वर्यं राजसंन्मानं भुक्तिमुक्तिफलप्रदम् ॥१२॥
👉विष्णोर्लोकैकसोपानं सर्वदुःखैकनाशनं ।
सर्वऐश्वर्यप्रदं नृणां सर्वमंगलकारकम् ॥१३॥
👉मायावी परमानंद त्यक्त्वा वैकूठमुत्तमं ।
स्वामिपुष्करिणीतीरे रमया सह मोदते ॥१४॥
👉कल्याणाद्भूत गात्राय कामितार्थप्रदायिने ।
श्रीमद् वेंकटनाथाय श्रीनिवासाय ते नमः ॥१५॥
🌹 ॥श्रीकृष्णार्पणमस्तु॥ 🌹
==============================
Comments
Post a Comment