श्रीरामरक्षास्तोत्र ... Shriram Raksha Sotra

श्रीरामरक्षास्तोत्र


श्रीरामरक्षास्तोत्र ...  Shriram Raksha Sotra


चरितं रघुनाथस्य शतकोटि प्रविस्तरम्
एकैकमक्षरं पुंसां महापातकनाशनम् .. १


ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्
जानकीलक्ष्मणोपेतं जटामुकुटमंडितम् .. २


सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम्स्वलीलया जगत्रातुं आविर्भूतं अजं विभुम् .. ३


रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्शिरोमे राघवः पातु भालं दशरथात्मजः .. ४


कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुतीघ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः .. ५


जिव्हां विद्यानिधिः पातु कंठं भरतवंदितःस्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः .. ६


करौ सीतापतिः पातु हृदयं जामदग्न्यजित्मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः .. ७


सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुःऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् .. ८


जानुनी सेतुकृत्पातु जंघे दशमुखान्तकःपादौ बिभीषणश्रीदः पातु रामोखिलं वपुः .. ९


एतां रामबलोपेतां रक्षां यः सुकृती पठेत्स चिरायुः सुखी पुत्री विजयी विनयी भवेत् .. १०


पातालभूतलव्योमचारिणश्छद्मचारिणःन द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः .. ११


रामेति रामभद्रेति रामचंद्रेति वा स्मरन्नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति .. १२


जगजैत्रैकमंत्रेण रामनाम्नाभिरक्षितम्यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः .. १३


वज्रपंजरनामेदं यो रामकवचं स्मरेत्अव्याहताज्ञः सर्वत्र लभते जयमंगलम् .. १४


आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हरःतथा लिखितवान् प्रातः प्रभुद्धो बुधकौशिकः .. १५


आरामः कल्पवृक्षाणां विरामः सकलापदाम्अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः .. १६


तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौपुंडरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ .. १७


फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौपुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ .. १८


शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम्रक्षः कुलनिहंतारौ त्रायेतां नो रघूत्तमौ .. १९


आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौरक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् .. २०


सन्नद्धः कवची खड्गी चापबाणधरो युवागच्छन्मनोरथोस्माकं रामः पातु सलक्ष्मणः .. २१


रामो दाशरथिः शूरो लक्ष्मणानुचरो बलीकाकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः .. २२


वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमःजानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः .. २३


इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितःअश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः .. २४


रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम्स्तुवंति नामभिर्दिव्यैः न ते संसारिणो नरः .. २५


रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम्काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्राजेंद्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिम्वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् .. २६


रामाय रामभद्राय रामचंद्राय वेधसेरघुनाथाय नाथाय सीतायाः पतये नमः .. २७


श्रीराम राम रघुनंदन राम रामश्रीराम राम भरताग्रज राम रामश्रीराम राम रणकर्कश राम रामश्रीराम राम शरणं भव राम राम .. २८


श्रीरामचंद्रचरणौ मनसा स्मरामिश्रीरामचंद्रचरणौ वचसा गृणामिश्रीरामचंद्रचरणौ शिरसा नमामिश्रीरामचंद्रचरणौ शरणं प्रपद्ये .. २९


माता रामो मत्पिता रामचंद्रःस्वामी रामो मत्सखा रामचंद्रःसर्वस्वं मे रामचंद्रो दयालुःनान्यं जाने नैव जाने न जाने .. ३०


दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजापुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् .. ३१


लोकाभिरामं रणरंगधीरम्राजीवनेत्रं रघुवंशनाथम्कारुण्यरूपं करुणाकरं तम्श्रीरामचंद्रम् शरणं प्रपद्ये .. ३२


मनोजवं मारुततुल्यवेगम्जितेन्द्रियं बुद्धिमतां वरिष्ठम्वातात्मजं वानरयूथमुख्यम्श्रीरामदूतं शरणं प्रपद्ये .. ३३


कूजंतं राम रामेति मधुरं मधुराक्षरम्आरुह्य कविताशाखां वंदे वाल्मीकिकोकिलम् .. ३४


आपदां अपहर्तारं दातारं सर्वसंपदाम्लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् .. ३५


भर्जनं भवबीजानां अर्जनं सुखसम्पदाम्तर्जनं यमदूतानां राम रामेति गर्जनम् .. ३६


रामो राजमणिः सदा विजयते रामं रमेशं भजेरामेणाभिहता निशाचरचमू रामाय तस्मै नमःरामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम्रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर .. ३७


राम रामेति रामेति रमे रामे मनोरमेसहस्रनाम तत्तुल्यं रामनाम वरानने .. ३८


इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम्श्रीसीतारामचंद्रार्पणमस्तु 



Comments

Popular posts from this blog

अशक्य ही शक्य करतील स्वामी ।

पंचप्राण हे आतुर झाले, करण्या तव आरती

लागवडीचे अंतराप्रमाणे एकरी किती झाड बसतील ह्याचे गणित असे कराल!